अ॒न॒मी॒वास॒ इळ॑या॒ मद॑न्तो मि॒तज्ञ॑वो॒ वरि॑म॒न्ना पृ॑थि॒व्याः। आ॒दि॒त्यस्य॑ व्र॒तमु॑पक्षि॒यन्तो॑ व॒यं मि॒त्रस्य॑ सुम॒तौ स्या॑म॥
anamīvāsa iḻayā madanto mitajñavo varimann ā pṛthivyāḥ | ādityasya vratam upakṣiyanto vayam mitrasya sumatau syāma ||
अ॒न॒मी॒वासः॑। इळ॑या। मद॑न्तः। मि॒तऽज्ञ॑वः। वरि॑मन्। आ। पृ॒थि॒व्याः। आ॒दि॒त्यस्य॑। व्र॒तम्। उ॒प॒ऽक्षि॒यन्तः॑। व॒यम्। मि॒त्रस्य॑। सु॒ऽम॒तौ। स्या॒म॒॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं।
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे मनुष्या यथा ब्रह्मचर्य्येणाऽनमीवास इळया मदन्तो मितज्ञवः पृथिव्या आदित्यस्य वरिमन् व्रतमोपक्षियन्तो वयं मित्रस्य सुमतौ स्याम तथा भवन्तोऽपि भवन्तु ॥३॥